July 25, 2024

MahaLakshmi Kavachm – महालक्ष्मीकवचम्

Lets share it
नारायण उवाच
सर्वसम्पत्प्रदस्यास्य कवचस्य प्रजापतिः ।
ऋषिश्छन्दश्र्च बृहती देवी पद्मालया सव्यम् ॥ १ ॥
धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्तितः ।
पुण्यबीजं च महतां कवचं परमाद्भुतम् ॥ २ ॥
ॐ हृीं कमलवासिन्यै स्वाहा मे पातु मस्तकम् ।
श्रीं मे पातु कपालं च लोचने श्रीं श्रियै नमः ॥ ३ ॥
ॐ श्रीं श्रियै स्वाहेति च कर्णयुग्मं सदावतु ।
ॐ श्रीं हृीं क्लीं महालक्ष्म्यै स्वाहा मे पातु नासिकाम् ॥ ४ ॥
ॐ श्रीं पद्मालयायै च स्वाहा दन्तं सदावतु ।
ॐ श्रीं कृष्णप्रियायै च दन्तरन्ध्रं  सदावतु ॥ ५ ॥
ॐ श्रीं नारायणेशायै मम कण्ठं सदावतु ।
ॐ श्रीं केशवकान्तायै मम स्कन्धं सदावतु ॥ ६ ॥
ॐ श्रीं पद्मनिवासिन्यै स्वाहा नाभिं सदावतु ।
ॐ हृीं श्रीं संसारमात्रे मम वक्षः सदावतु ॥ ७ ॥
ॐ श्रीं श्रीं कृष्णकान्तायै स्वाहा पृष्ठं सदावतु ।
ॐ हृीं श्रीं श्रियै स्वाहा मम हस्तौ सदावतु ॥ ८ ॥
ॐ श्रीं निवासकान्तायै मम पादौ सदावतु ।
ॐ हृीं श्रीं क्लीं श्रियै स्वाहा सर्वाङ्गं मे सदावतु ॥ ९ ॥
प्राच्यां पातु महालक्ष्मीराग्नेय्यां कमलालया ।
पद्मा मां दक्षिणे पातु नैर्ऋत्यां श्रीहरिप्रिया ॥ १० ॥
पद्मालया पश्र्चिमे मां वायव्यां पातु श्रीः स्वयम् ।
उत्तरे कमला पातु ऐशान्यां सिन्धुकन्यका ॥ ११ ॥
नारायणेशी पातूर्ध्वमधो विष्णुप्रियावतु ।
संततं सर्वतः पातु विष्णुप्राणाधिका मम ॥ १२ ॥
इति ते कथितं वत्स सर्वमन्त्रौघविग्रहम् ।
सर्वैश्र्वर्यप्रदं नाम कवचं परमाद्भुतम् ॥ १३ ॥
सुवर्णपर्वतं दत्त्वा मेरुतुल्यं द्विजातये ।
यत् फलं लभते धर्मी कवचेन ततोऽधिकम् ॥ १४ ॥
गुरुमभ्यर्च्य विधिवत् कवचं धारयेत् तु यः ।
कण्ठे वा दक्षिणे बाहौ स श्रीमान् प्रतिजन्मनि ॥ १५ ॥
अस्ति लक्ष्मीर्गृहे तस्य निश्र्चला शतपूरुषम् ।
देवेन्द्रैश्र्चासुरेन्द्रैश्र्च सोऽवध्यो निश्र्चितं भवेत् ॥ १६ ॥
स सर्वपुण्यवान् धीमान् सर्वयज्ञेषु दीक्षितः ।
स स्नातः सर्वतीर्थेषु यस्येदं कवचं गले ॥ १७ ॥
यस्मै कस्मै न दातव्यं लोभमोहभयैरपि ।
गुरुभक्ताय शिष्याय शरणाय प्रकाशयेत् ॥ १८ ॥
इदं कवचमज्ञत्वा जपेल्लक्ष्मीं जगत्प्रसूम् ।
कोटिसंख्यं प्रजप्तोऽसि न मन्त्रः सिद्धिदायकः ॥ १९ ॥
॥ इति श्रीब्रह्मवैवर्ते गणपतिखण्डे महालक्ष्मीकवचं सम्पूर्णम् ॥

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!